मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १५

संहिता

यो अ॒ग्निं त॒न्वो॒३॒॑ दमे॑ दे॒वं मर्त॑ः सप॒र्यति॑ ।
तस्मा॒ इद्दी॑दय॒द्वसु॑ ॥

पदपाठः

यः । अ॒ग्निम् । त॒न्वः॑ । दमे॑ । दे॒वम् । मर्तः॑ । स॒प॒र्यति॑ ।
तस्मै॑ । इत् । दी॒द॒य॒त् । वसु॑ ॥

सायणभाष्यम्

योमर्तोमनुष्यो दमे गृहे अग्निं देवं तन्वोधनस्यप्राप्त्यर्थमितिशेषः । भोजनं तनाइति धननामसुपाठात् । सपर्यति परिचरति तस्माइत् तस्माएव वसु धनं दीदयत् सोग्निः प्रयच्छति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८