मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १७

संहिता

उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।
तव॒ ज्योतीं॑ष्य॒र्चयः॑ ॥

पदपाठः

उत् । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ।
तव॑ । ज्योतीं॑षि । अ॒र्चयः॑ ॥

सायणभाष्यम्

हे अग्ने तव शुचयो निर्मलाः शुक्राः शुक्लवर्णा भ्राजन्तोदीप्यमानाः अर्चयः प्रभास्तव ज्योतींषि तेजांस्युदीरते प्रेरयन्ति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९