मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १८

संहिता

ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या॑ग्ने॒ स्व॑र्पतिः ।
स्तो॒ता स्यां॒ तव॒ शर्म॑णि ॥

पदपाठः

ईशि॑षे । वार्य॑स्य । हि । दा॒त्रस्य॑ । अ॒ग्ने॒ । स्वः॑ऽपतिः ।
स्तो॒ता । स्या॒म् । तव॑ । शर्म॑णि ॥

सायणभाष्यम्

हे अग्ने स्वःपतिः स्वर्गस्य स्वामी त्वं वार्यस्य वरणीयस्य दात्रस्य दातव्यस्य धनस्य ईशिषे ईश्वरोसि । शर्मणि सुखे निमित्ते तव स्तोता स्यां भवेयम् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९