मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १९

संहिता

त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः ।
त्वां व॑र्धन्तु नो॒ गिरः॑ ॥

पदपाठः

त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

सायणभाष्यम्

हे अग्ने त्वां मनीषिणो मनसईश्वराः स्तोतारः स्तुतिभिः स्तुवन्तीतिशेषः । किञ्च त्वामेव चित्तिभिः कर्मभिर्हिन्वन्ति प्रीणयन्ति नोस्माकं गिरः स्तुतयः त्वामेव वर्धन्तु वर्धयन्तु ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९