मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २१

संहिता

अ॒ग्निः शुचि॑व्रततम॒ः शुचि॒र्विप्र॒ः शुचि॑ः क॒विः ।
शुची॑ रोचत॒ आहु॑तः ॥

पदपाठः

अ॒ग्निः । शुचि॑व्रतऽतमः । शुचिः॑ । विप्रः॑ । शुचिः॑ । क॒विः ।
शुचिः॑ । रो॒च॒ते॒ । आऽहु॑तः ॥

सायणभाष्यम्

शुचिव्रततमःअतिशयेनशुद्धकर्मा शुचिः शुद्धएव विप्रोमेधावी शुचिः शुद्धःसन्नेव कविः क्रान्तकर्मा शुचिरेवाहुतोग्निः रोचते प्रकाशते ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०