मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २२

संहिता

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ ।
अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥

पदपाठः

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व॒र्ध॒न्तु॒ । वि॒श्वहा॑ ।
अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥

सायणभाष्यम्

उतातिच हे अग्ने त्वा त्वां मम धीतयः कर्माणि गिरः स्तुतयश्च विश्वहा सर्वदा वर्धन्तु वर्धयन्तु । नोस्माकं सख्यस्य सख्यं सखिकर्म स्तुत्यादिकं बोधि बुध्यस्व ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०