मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २३

संहिता

यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् ।
स्युष्टे॑ स॒त्या इ॒हाशिषः॑ ॥

पदपाठः

यत् । अ॒ग्ने॒ । स्या॒म् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् ।
स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥

सायणभाष्यम्

हे अग्ने यद्यदि अहं त्वं बहुधनः स्यां भवेयम् । त्वं वा घ त्वं वाखलु अहं दरिद्रः स्तोता स्याः भवेः ततः ते तव आशिषः आशासनानि इहास्मद्विषये सत्याः सत्यानि स्युर्भवेयुः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०