मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २४

संहिता

वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः ।
स्याम॑ ते सुम॒तावपि॑ ॥

पदपाठः

वसुः॑ । वसु॑ऽपतिः । हि । क॒म् । असि॑ । अ॒ग्ने॒ । वि॒भाऽव॑सुः ।
स्याम॑ । ते॒ । सु॒ऽम॒तौ । अपि॑ ॥

सायणभाष्यम्

हे अग्ने त्वं विभावसुर्दीप्तिधनो वसुपतिर्धनपतिः वसुर्वासयिताचासि भवसि । हि यस्मादतोवयमपि ते तव सुमतावनुग्रहबुद्धौ सुष्टुतौ स्याम भवेम ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०