मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २६

संहिता

युवा॑नं वि॒श्पतिं॑ क॒विं वि॒श्वादं॑ पुरु॒वेप॑सम् ।
अ॒ग्निं शु॑म्भामि॒ मन्म॑भिः ॥

पदपाठः

युवा॑नम् । वि॒श्पति॑म् । क॒विम् । वि॒श्व॒ऽअद॑म् । पु॒रु॒ऽवेप॑सम् ।
अ॒ग्निम् । शु॒म्भा॒मि॒ । मन्म॑ऽभिः ॥

सायणभाष्यम्

युवानं नित्यतरुणं विश्पतिं विशांपतिं कविं क्रान्तकर्माणं विश्वादं सर्वस्य हविषोत्तारं पुरुवेपसं बहुकर्माणं वेषः वेपइति कर्मनामसुपाठात् अग्निं मन्मभिः मननीयैः स्तोत्रैः शुंभामि शोभयामि ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१