मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २७

संहिता

य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ ।
स्तोमै॑रिषेमा॒ग्नये॑ ॥

पदपाठः

य॒ज्ञाना॑म् । र॒थ्ये॑ । व॒यम् । ति॒ग्मऽज॑म्भाय । वी॒ळवे॑ ।
स्तोमैः॑ । इ॒षे॒म॒ । अ॒ग्नये॑ ॥

सायणभाष्यम्

यज्ञानां रथ्ये नेत्रे तिग्मजंभाय तीक्ष्णज्वालाय वीळवे बलवते अग्नये स्तोमैः स्तोत्रैः वयमाङ्गिरसा इषेम स्तुतिं कर्तुमिच्छेम ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१