मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् २९

संहिता

धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑वि॒ः सदा॑ ।
अग्ने॑ दी॒दय॑सि॒ द्यवि॑ ॥

पदपाठः

धीरः॑ । हि । असि॑ । अ॒द्म॒ऽसत् । विप्रः॑ । न । जागृ॑विः । सदा॑ ।
अग्ने॑ । दी॒दय॑सि । द्यवि॑ ॥

सायणभाष्यम्

हे अग्ने त्वं धीरोसिहि भवसि खलु । अद्मसद्धविषिसीदन् विप्रोन मेधावीव जागृविः प्रजानां हितकरणे जागरणशीलोसि सदा द्यव्यन्तरिक्षे दीदय- सि दीव्यसि च ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१