मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २

संहिता

बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑ः ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥

पदपाठः

बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ ।
येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥

सायणभाष्यम्

एषामृषीणां इध्मोबृहन्नित् महान् खलु । भूरि बहुच शस्तं स्तोत्रं स्वरुश्च पृथुर्महान् । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२