मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ५

संहिता

प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।
यस्ते॑ शत्रु॒त्वमा॑च॒के ॥

पदपाठः

प्रति॑ । त्वा॒ । श॒व॒सी । व॒द॒त् । गि॒रौ । अप्सः॑ । न । यो॒धि॒ष॒त् ।
यः । ते॒ । श॒त्रु॒ऽत्वम् । आ॒ऽच॒के ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां शवसी बलवती माता प्रतिवदत्प्रत्यवोचत् । यः ते शत्रुत्वमाचके कामयते सगिरौ पर्वते अप्सोन दर्शनीयोगजइव योधिषत् योधयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२