मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ६

संहिता

उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।
यद्वी॒ळया॑सि वी॒ळु तत् ॥

पदपाठः

उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् ।
यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥

सायणभाष्यम्

उतापिच हे मघवन् त्वं श्रुणु अस्मदीयां स्तुतिम् । ते त्वत्तोयद्वष्टि कामयते स्तोता तद्ववक्षि तस्मै तद्वहसि । किञ्च त्वं यद्वीळयासि दृढीकरोषि तद्वीळु तत् दृढमेव सर्वत्र भवति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३