मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ७

संहिता

यदा॒जिं यात्या॑जि॒कृदिन्द्र॑ः स्वश्व॒युरुप॑ ।
र॒थीत॑मो र॒थीना॑म् ॥

पदपाठः

यत् । आ॒जिम् । याति॑ । आ॒जि॒ऽकृत् । इन्द्रः॑ । स्व॒श्व॒ऽयुः । उप॑ ।
र॒थिऽत॑मः । र॒थिना॑म् ॥

सायणभाष्यम्

यद्यदा आजिकृत् युद्धकृदिन्द्रः स्वश्वयुः कल्याणमश्वमिच्छन् आजिं युद्धमुपयाति तदा रथीतमोतिशयेनरथी भवति । रथीनां सर्वान्रथिनश्च जयती- तिशेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३