मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ८

संहिता

वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।
भवा॑ नः सु॒श्रव॑स्तमः ॥

पदपाठः

वि । सु । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । वज्रि॑न् । विष्व॑क् । यथा॑ । वृ॒ह॒ ।
भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥

सायणभाष्यम्

हे वज्रिन् त्वं विश्वाः सर्वाः अभियुजोभियोक्त्रीः प्रजाः यथा विष्वग्भवति तथा सु सुष्ठु विवृह नोस्माकं सुश्रवस्तमः शोभनान्नवत्तमश्च भव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३