मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १०

संहिता

वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।
ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥

पदपाठः

वृ॒ज्याम॑ । ते॒ । परि॑ । द्विषः॑ । अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ।
ग॒मेम॑ । इत् । इ॒न्द्र॒ । गोऽम॑तः ॥

सायणभाष्यम्

हे शक्रेन्द्र याचमानावयं ते तव द्विषोद्वेष्टृन् परिवृज्याम नोपगच्छेम । किन्तु ते तव गोमतः पशुमतोदावनेभीष्टदानाय अरं पर्याप्तं गमेमेत् गच्छेमैव ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३