मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ११

संहिता

शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विनः॑ ।
वि॒वक्ष॑णा अने॒हसः॑ ॥

पदपाठः

शनैः॑ । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ । अश्व॑ऽवन्तः । श॒त॒ऽग्विनः॑ ।
वि॒वक्ष॑णाः । अ॒ने॒हसः॑ ॥

सायणभाष्यम्

हे अद्रिवोवज्रिन् वयं शनैर्मन्दंमन्दं यन्तोगच्छन्तोश्वावन्तोश्ववन्तः शतग्विनोबहुधना विवक्षणाः वोढव्यं वहन्तोनेहसः उपद्रवरहिताश्च सन्तोगमेमे- दिति संबन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४