मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १२

संहिता

ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।
ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥

पदपाठः

ऊ॒र्ध्वा । हि । ते॒ । दि॒वेऽदि॑वे । स॒हस्रा॑ । सू॒नृता॑ । श॒ता ।
ज॒रि॒तृऽभ्यः॑ । वि॒ऽमंह॑ते ॥

सायणभाष्यम्

हे इन्द्र ते तव जरितृभ्यः स्तोतृभ्यः सहस्रा सहस्राणि शता शतानि चोर्ध्वा ऊर्ध्वानि मुख्यानि सूनृता सूनृतानि साधनानि दिवेदिवेन्वहं विमंहते यजमानः प्रयच्छति । मंहतिर्दानकर्मा ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४