मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १३

संहिता

वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् ।
आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥

पदपाठः

वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । इन्द्र॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जम् ।
आ॒दा॒रिण॑म् । यथा॑ । गय॑म् ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां धनञ्चयं धनानां जेतारं दृढाचित् दृढानामपि शत्रूणामारुजं आभिमुख्येन भंक्तारं आदारिणमादर्तारञ्च यथा गयं गृहमिवोपद्रवेभ्यो- रक्षकञ्च विद्म जानीम ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४