मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १४

संहिता

क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः ।
आ त्वा॑ प॒णिं यदीम॑हे ॥

पदपाठः

क॒कु॒हम् । चि॒त् । त्वा॒ । क॒वे॒ । मन्द॑न्तु । धृ॒ष्णो॒ इति॑ । इन्द॑वः ।
आ । त्वा॒ । प॒णिम् । यत् । ईम॑हे ॥

सायणभाष्यम्

हे कवे क्रान्तकर्मन् धृष्णो धर्षकेन्द्र यद्यदा पणिं पणमानं त्वा त्वां आ आभिमुख्येनेमहेभीष्टं याचामहे । तदा ककुहं उच्छ्रितं त्वा त्वामिन्द्रवश्चित् सोमाअपि मन्दन्तु मादयन्तु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४