मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १६

संहिता

इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ ।
पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥

पदपाठः

इ॒मे । ऊं॒ इति॑ । त्वा॒ । वि । च॒क्ष॒ते॒ । सखा॑यः । इ॒न्द्र॒ । सो॒मिनः॑ ।
पु॒ष्टऽव॑न्तः । यथा॑ । प॒शुम् ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां सोमिनोभिषुतसोमसखायः इमउ इमेएव खल्वस्मदीयाजनाः पुष्टावन्ताः संभृतघासाः यथा पशुं पशुमिव विचक्षते विपश्यन्ति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५