मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् १८

संहिता

यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।
भवे॑रा॒पिर्नो॒ अन्त॑मः ॥

पदपाठः

यत् । शु॒श्रु॒याः । इ॒मम् । हव॑म् । दुः॒ऽमर्ष॑म् । च॒क्रि॒याः॒ । उ॒त ।
भवेः॑ । आ॒पिः । नः॒ । अन्त॑मः ॥

सायणभाष्यम्

हे इन्द्र यद्यदीममस्मदीयं हवमाह्वानं शुश्रुयाः शृणुयाः तर्हि दुर्मर्षं शत्रूणां दुःसाहं बलं चक्रियाः कुर्याः । उतापिच नोस्माकमन्तमः अन्तिकतम आपिर्बन्धुः भवेः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५