मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २०

संहिता

आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।
उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥

पदपाठः

आ । त्वा॒ । र॒म्भम् । न । जिव्र॑यः । र॒र॒भ्म । श॒व॒सः॒ । प॒ते॒ ।
उ॒श्मसि॑ । त्वा॒ । स॒धऽस्थे॑ । आ ॥

सायणभाष्यम्

हे शवसस्पते बलस्यपते त्वा त्वां वयं जिव्रयः क्षीणावृद्धारम्भंन दंडमिव ररभ्म आरभामहे । तत्थाचयास्कः-आरभामहे त्वाजीर्णाइव दण्डमिति । अपिच त्वा त्वां सधस्थे यज्ञे उरमसि कामयामहे ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५