मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २१

संहिता

स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।
नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥

पदपाठः

स्तो॒त्रम् । इन्द्रा॑य । गा॒य॒त॒ । पु॒रु॒ऽनृ॒म्णाय॑ । सत्व॑ने ।
नकिः॑ । यम् । वृ॒ण्व॒ते । यु॒धि ॥

सायणभाष्यम्

यमिन्द्रं युधि युद्धे नकिर्वृण्वते केपिनवारयन्ति तस्मै सत्वने दानशीलाय पुरुनृम्णाय बहुधनायेन्द्राय स्तोत्रं गायत पठत ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६