मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २३

संहिता

मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।
माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥

पदपाठः

मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उ॒प॒ऽहस्वा॑नः । आ । द॒भ॒न् ।
माकी॑म् । ब्र॒ह्म॒ऽद्विषः॑ । व॒नः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां मूराः मूरका मूढा मनुष्या अविष्यवः पालनकामा मादभन् माहिंसंतु । उपहस्वानः उपहसनपराश्च माभवन्तु । ब्रह्मद्विषो ब्राह्मणा- नां द्वेष्टृन् माकीं वनः मा भजेथाः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६