मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २४

संहिता

इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से ।
सरो॑ गौ॒रो यथा॑ पिब ॥

पदपाठः

इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से ।
सरः॑ । गौ॒रः । यथा॑ । पि॒ब॒ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वामिहयज्ञे गोपरीणसा गव्येनपयसा संमिश्रितेन सोमेन महे महते राधसे धनाय मन्दन्तु मनुष्यामादयन्तु । त्वञ्च तं सोमं यथा गौरोमृगः सरः पिबति तथा पिब ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६