मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २५

संहिता

या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।
ता सं॒सत्सु॒ प्र वो॑चत ॥

पदपाठः

या । वृ॒त्र॒ऽहा । प॒रा॒ऽवति॑ । सना॑ । नवा॑ । च॒ । चु॒च्यु॒वे ।
ता । सं॒सत्ऽसु॑ । प्र । वो॒च॒त॒ ॥

सायणभाष्यम्

वृत्रहेन्द्रः परावति दूरे या यानि सना सनातनानि नवा नवानि नूतनानि च धनानि चुच्युवे प्रेरितवान् तानि धनानि संसत्सु यज्ञेषु सभासुवा प्रवोचत प्रब्रूते विद्वज्जनः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६