मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २७

संहिता

स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् ।
व्या॑नट् तु॒र्वणे॒ शमि॑ ॥

पदपाठः

स॒त्यम् । तत् । तु॒र्वशे॑ । यदौ॑ । विदा॑नः । अ॒ह्न॒वा॒य्यम् ।
वि । आ॒न॒ट् । तु॒र्वणे॑ । शमि॑ ॥

सायणभाष्यम्

तुर्वशेराज्ञि यदौच यदुनामके च राज्ञि तत्प्रसिद्धं यागादिलक्षणं शमि कर्म । शची शमीति कर्मनामसुपाठात् । सत्यं परमार्थं विदानोजानन् तयोः प्रीत्यर्थमह्नवाय्यं अह्नवाय्यनामकं तयोः शत्रुं तुर्वणे संग्रामे व्यानट् व्याप्तवान् ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७