मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २८

संहिता

त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।
स॒मा॒नमु॒ प्र शं॑सिषम् ॥

पदपाठः

त॒रणि॑म् । वः॒ । जना॑नाम् । त्र॒दम् । वाज॑स्य । गोऽम॑तः ।
स॒मा॒नम् । ऊं॒ इति॑ । प्र । शं॒सि॒ष॒म् ॥

सायणभाष्यम्

हे अस्मदीयाः पुरुषा वोयुष्माकं जनानां पुत्रपौत्रादीनां तरणिं तारकं त्रदं शत्रूणां तर्दयितारं गोमतः पशुमतोवाजस्यान्नस्य दातारं चेन्द्रं समानमु साधारणमेव प्रशंसिषं स्तौमि ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७