मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् २९

संहिता

ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥

पदपाठः

ऋ॒भु॒क्षण॑म् । न । वर्त॑वे । उ॒क्थेषु॑ । तु॒ग्र्य॒ऽवृध॑म् ।
इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥

सायणभाष्यम्

ऋभुक्षणं महान्तं तुग्र्यावृधं उदकस्यवर्धयितारं तुग्र्या बर्बुरमित्युदकनामसुपाठात् इन्द्रं सोमे सचा स्तोत्रेणसह सुतेभिषुते सत्युक्थेषु शस्त्रेषु वर्तवे धनं वरितुं प्रशंसामीतिशेषः नेतिसम्प्रत्यर्थे ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७