यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् ।
गोभ्यो॑ गा॒तुं निरे॑तवे ॥
यः । कृ॒न्तत् । इत् । वि । यो॒न्यम् । त्रि॒ऽशोका॑य । गि॒रिम् । पृ॒थुम् ।
गोभ्यः॑ । गा॒तुम् । निःऽए॑तवे ॥
यइद्यएवेन्द्रोयोन्यमुदकनिर्गमनद्वारं पृथुं विस्तीर्णं गिरिंमेघं गिरिः व्रजइति मेघनामसु पाठात् त्रिशोकाय त्रिशोकनामऋष्यर्थं विकृन्तद्मच्छिनत् सगोभ्योगमनवद्भ्यउदकेभ्यो निरेतवे निर्गमनाय गातुं भूमिं भूमिः गातुरिति तन्नामसुपाठात् मार्गमित्यर्थः करोतीतिशेषः ॥ ३० ॥