मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३१

संहिता

यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि ।
मा तत्क॑रिन्द्र मृ॒ळय॑ ॥

पदपाठः

यत् । द॒धि॒षे । म॒न॒स्यसि॑ । म॒न्दा॒नः । प्र । इत् । इय॑क्षसि ।
मा । तत् । कः॒ । इ॒न्द्र॒ । मृ॒ळय॑ ॥

सायणभाष्यम्

हे इन्द्र मन्दानोमोदमानस्त्वं यच्छुभं वस्तु दधिषे धारयसि यच्च मनस्यसि पूजयसि यदपि प्रेदियक्षसि प्रयच्छस्येव तत्सर्वं माकः किं नाकार्षीरस्मा- कं कृतवानेव । किञ्चास्मान्मृळय सुखय ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८