मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३२

संहिता

द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।
जिगा॑त्विन्द्र ते॒ मनः॑ ॥

पदपाठः

द॒भ्रम् । चि॒त् । हि । त्वाऽव॑तः । कृ॒तम् । शृ॒ण्वे । अधि॑ । क्षमि॑ ।
जिगा॑तु । इ॒न्द्र॒ । ते॒ । मनः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वावतः त्वत्सदृशस्य दभ्रंचिदल्पमपि कृतं कर्माधिक्षमि क्षमायां अधीति सप्तन्यर्थानुवादः शृण्वे विश्रुतं भवतिहि । तथासति ते तव मनो- जिगातु मयिगच्छतु ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८