तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥
तव॑ । इत् । ऊं॒ इति॑ । ताः । सु॒ऽकी॒र्तयः॑ । अस॑न् । उ॒त । प्रऽश॑स्तयः ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥
हे इन्द्र त्वं नोस्मान् यद्याभिर्मृळयासि सुखयसि ताः सुकीर्तयः शोभनाख्यातयः तवेत्तवैवासन् भवेयुः । उतापिच ताः प्रशस्तयः स्तुतयश्च तवैव भवेयुः ॥ ३३ ॥