मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३४

संहिता

मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।
वधी॒र्मा शू॑र॒ भूरि॑षु ॥

पदपाठः

मा । नः॒ । एक॑स्मिन् । आग॑सि । मा । द्वयोः॑ । उ॒त । त्रि॒षु ।
वधीः॑ । मा । शू॒र॒ । भूरि॑षु ॥

सायणभाष्यम्

हे शूरेन्द्र नोस्मानेकस्मिन्नागस्यपराधे मावधीर्माहिंसीः द्वयोरागसोरपि मावघीरुतापिच त्रिष्वागः स्वपि माहिंसीर्भूरिष्वप्यसंख्यातेष्वप्यागःसु माच वधीः ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८