मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३५

संहिता

बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ ।
द॒स्माद॒हमृ॑ती॒षहः॑ ॥

पदपाठः

बि॒भय॑ । हि । त्वाऽव॑तः । उ॒ग्रात् । अ॒भि॒ऽप्र॒भ॒ङ्गिनः॑ ।
द॒स्मात् । अ॒हम् । ऋ॒ति॒ऽसहः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वावतः त्वत्सदृशादुग्रादुद्रूर्णादभिप्रभंगिणः शत्रूणामभिप्रहर्तुर्दस्मात्पापानामुपक्षपयितुः ऋतीषहः शत्रुकृतां हिंसां सहतः अहं त्रिशोकः बिभयहि बिभेमि खलु ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८