मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३७

संहिता

को नु म॑र्या॒ अमि॑थित॒ः सखा॒ सखा॑यमब्रवीत् ।
ज॒हा को अ॒स्मदी॑षते ॥

पदपाठः

कः । नु । म॒र्याः॒ । अमि॑थितः । सखा॑ । सखा॑यम् । अ॒ब्र॒वी॒त् ।
ज॒हा । कः । अ॒स्मत् । ई॒ष॒ते॒ ॥

सायणभाष्यम्

कोनु कःखलु हे मर्याः मनुष्या अमिथितो मेथतिराक्रोशकर्मा अनाक्रुष्टः इन्द्रादन्यः सखा सखायं प्रति जहा अहं कं जघान कः कोवास्मदस्मत्तोभीतः ईषते पलायतइत्यब्रवीद्वदति इन्द्रएवैतादृशस्य वचनस्य वक्तेत्यभिप्रायः । तथाचयास्कः-मेथतिराक्रोशकर्मा पापकं जघानकमहं जातु कोस्मद्भीतः पलायतइति । मानएकस्मिन्नागसीत्यादिकयाश्रुत्या नूनमृषिमिन्द्रआजहारेत्यत्रऋषिर्विस्मयतइति ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९