मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३८

संहिता

ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।
श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥

पदपाठः

ए॒वारे॑ । वृ॒ष॒भ॒ । सु॒ते । असि॑न्वन् । भूरि॑ । आ॒व॒यः॒ ।
श्व॒घ्नीऽइ॑व । नि॒ऽवता॑ । चर॑न् ॥

सायणभाष्यम्

हे वृषभ कामानांवर्षकेन्द्र एवारे एवारोनामकश्चित्तस्मिन् सुतेभिषुतेसोमेसति भूरि बहूनि धनान्यसिन्वन् नबध्नन् श्वघ्नीव श्वघ्नी कितवः । तथाच- यास्कः-श्वघ्नीकितवोभवतिस्वंहन्ति स्वंपुनराश्रितंभवतीति । सइवससोमः त्वामेवप्राप्तः आवयः दृश्यमानाः सर्वेदेवाः निवताअधोमुखाः सन्तः आचरन् निर्गताः ॥ ३८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९