आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।
यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥
आ । ते॒ । ए॒ता । व॒चः॒ऽयुजा॑ । हरी॒ इति॑ । गृ॒भ्णे॒ । सु॒मत्ऽर॑था ।
यत् । ई॒म् । ब्र॒ह्मऽभ्यः॑ । इत् । ददः॑ ॥
हे इन्द्र ते तव सुमद्रथा कल्याणरथौ वचोयुजा मन्त्रेणयुज्यमानौ एता एतौ हरी अश्वौ आगृभ्णे अस्मदभिमुखं यातुं हस्ताभ्यां आकर्षामीत्यर्थः । यद्यस्मात्त्वं ब्रह्मभ्यइद्ब्राह्मणेभ्यएव ईमिदं धनं ददः ददासि ॥ ३९ ॥