मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ४०

संहिता

भि॒न्धि विश्वा॒ अप॒ द्विष॒ः परि॒ बाधो॑ ज॒ही मृधः॑ ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥

पदपाठः

भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं विश्वाः सर्वाद्विषोद्वेष्ट्रीः शत्रुसेनाः अपभिन्धि विदारय । बाधोहिंसित्रीः मृधः संग्रामान् स्पृधः मृधः इति संग्रामनामसुपाठात् परिजहि हिंसच । तासां स्पार्हं स्पृहणीयं तत्प्रसिद्धं वस्वाभरास्मभ्यमाहर ॥ ४० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९