यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥
यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
हे इन्द्र त्वयाव वीळौ दृढे परैःकम्पयितुमशक्ये यद्धनं पराभृतं विन्यस्तं यच्च स्थिरे स्वयमचले पराभृतं यच्चापि पर्शाने विमर्शनक्षमे पराभृतं तत्स्पा- र्हं वस्वाभर ॥ ४१ ॥