मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् २

संहिता

त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् ।
वि॒द्म दा॒तारं॑ रयी॒णाम् ॥

पदपाठः

त्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् ।
वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥

सायणभाष्यम्

हे अद्रिवः अत्ति शत्रुमित्यद्रिः वज्रः तद्वन्निन्द्र त्वां सत्यं निश्चयं इषामन्नानां दातारं विद्म जानीमः । तथा रयीणां धनानां दातारं विद्म ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः