मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ३

संहिता

आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।
गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ॥

पदपाठः

आ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑म्ऽऊते । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो ।
गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ॥

सायणभाष्यम्

हे शतमूते अपरिमितरक्षण हे शतक्रतो बहुकर्मयुक्तेन्द्र यस्य ते महिमानं माहात्म्यं कारवः स्तोतारोगीर्भिः स्तुतिभिर्गृणन्ति स्तुवन्ति स्वाभीष्टाय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः