मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ४

संहिता

सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।
मि॒त्रः पान्त्य॒द्रुहः॑ ॥

पदपाठः

सु॒ऽनी॒थः । घ॒ । सः । मर्त्यः॑ । यम् । म॒रुतः॑ । यम् । अ॒र्य॒मा ।
मि॒त्रः । पान्ति॑ । अ॒द्रुहः॑ ॥

सायणभाष्यम्

रामर्त्योमनुष्यो यजमानः सुनीथः सुयज्ञः सुनयनोवा भवति । घेति प्रसिद्धौ । सइत्युक्तं कमित्याह यं यजमानं मरुतोदेवाः पान्ति रक्षन्ति । अद्रुहः अद्रोहकर्तारः तथा यमर्यमा पातियंचमित्रः पाति सएवं भवतीति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः