मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ५

संहिता

दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।
सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥

पदपाठः

दधा॑नः । गोऽम॑त् । अश्व॑ऽवत् । सु॒ऽवीर्य॑म् । आ॒दि॒त्यऽजू॑तः । ए॒ध॒ते॒ ।
सदा॑ । रा॒या । पु॒रु॒ऽस्पृहा॑ ॥

सायणभाष्यम्

आदित्यजूतः आदित्यप्रेरितः आदित्यानुगृहीतो यजमानो गोमद्गोभिरुपेतं अश्ववदश्वैरुपेतं सुवीर्यं शोभनवीर्योपेतं पुत्रं दधानो धारयन्नेधते वर्धते सदा सर्वदा । किञ्च पुरुस्पृहा बहुभिः स्पृहणीयेन राया धनेन सदैधते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः