मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ६

संहिता

तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् ।
ईशा॑नं रा॒य ई॑महे ॥

पदपाठः

तम् । इन्द्र॑म् । दान॑म् । ई॒म॒हे॒ । श॒व॒सा॒नम् । अभी॑र्वम् ।
ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥

सायणभाष्यम्

तं प्रसिद्धमिन्द्रं दानं देयं रायोधनं ईमहे याचामहे । कीदृशमिन्द्रं शवसानं बलमाचरन्तं अभीर्वं अभीरुं ईशानं सर्वस्य स्वामिनं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः