मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ७

संहिता

तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रव॒ः सचा॑ ।
तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥

पदपाठः

तस्मि॑न् । हि । सन्ति॑ । ऊ॒तयः॑ । विश्वाः॑ । अभी॑रवः । सचा॑ ।
तम् । आ । व॒ह॒न्तु॒ । सप्त॑यः । पु॒रु॒ऽवसु॑म् । मदा॑य । हर॑यः । सु॒तम् ॥

सायणभाष्यम्

तस्मिन्निन्द्रे ऊतयोगंत्र्यो विश्वाः सर्वा अभीरवोकातराः सचा सहायभूता मरुद्रूपाः सेनाः सन्ति भवन्ति अथवा तस्मिन्सर्वारक्षणाः सह संभवन्ति तमिन्द्रं सप्तयः सर्पणशीलाहरयोश्वाः पुरूवसुं बहुधनं बहुधनप्रदमित्यर्थः तं मदाय सुतमभिषुतसोमं प्रत्याबहन्तु आगमयन्तु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः