मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ८

संहिता

यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥

पदपाठः

यः । ते॒ । मदः॑ । वरे॑ण्यः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।
यः । आ॒ऽद॒दिः । स्वः॑ । नृऽभिः॑ । यः । पृत॑नासु । दु॒स्तरः॑ ॥

सायणभाष्यम्

पूर्वमन्त्रे मदाय हरय इत्युक्तम् समदः स्तूयते । हे इन्द्र ते तव योमदो वरेण्यो वरणीयः यश्च मदः संग्रामे वृत्रहन्तमः शत्रूणामतिशयेन हन्ता यश्चाद- दिरादाता स्वः सु अरणं धनं नृभिर्नृभ्यः शत्रुभ्यः यश्च पृतनासु संग्रामेषु दुष्टरोनभिभाव्यस्तस्मै मदाय हरयो वहन्त्विति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः