मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४६, ऋक् ९

संहिता

यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।
स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥

पदपाठः

यः । दु॒स्तरः॑ । वि॒श्व॒ऽवा॒र॒ । श्र॒वाय्यः॑ । वाजे॑षु । अस्ति॑ । त॒रु॒ता ।
सः । नः॒ । श॒वि॒ष्ठ॒ । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥

सायणभाष्यम्

हे विश्ववार विश्वैर्वरणीयेन्द्र वाजेषु युद्धेषु यस्तवदुष्टरो दुःखेनतरीतुंशक्यः तरुता शत्रूणां तारकोस्ति भवति । हे वसो वासक हे शविष्ठातिशये- नबलवन्निन्द्र सत्वं नः अस्माकं सवना सवनानि आगहि आगच्छ । वयंच गोमति व्रजे गोमन्तं व्रजं गमेम गच्छेम ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः